________________ // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति बालिशः। आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि एवं राग-द्वेष-मोहैर्जायमानान् विचिन्तयेत् / यत्राऽपायांस्तदपायविचयध्यानमिष्यते विपाकः फलमाम्नातः, कर्मणां स शुभा-ऽशुभः / द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते शुभस्तत्राङ्गना-माल्य-खाद्यादिद्रव्यभोगतः / / अशुभस्त्वहि-शस्त्रा-ऽग्नि-विषादिभ्योऽनुभूयते / क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः / श्मशान-जाङ्गला-ऽरण्यप्रभृतावशुभः पुनः काले त्वशीतला-ऽनुष्णे, वसन्तादौ रतेः शुभः / उष्णे शीते ग्रीष्म-हेमन्तादौ भ्रमणतोऽशुभः मनःप्रसाद-सन्तोषादिभावेषु शुभो भवेत् / क्रोधा-ऽहङ्कार-रौद्रत्वादिभावेष्वशुभः पुनः सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः / / कुमर्त्य-तिर्यग्नरकादिभवेष्वशुभः पुनः अपि च-उदयक्षयक्षयोपशमोपशमाः कर्मणां भवन्त्यत्र / द्रव्यं क्षेत्रं कालं, भावं च भवं च सम्प्राप्य इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् / स्वं स्वं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा जन्तोः सर्वज्ञरूपस्य, ज्ञानमाव्रियते सदा / येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा। पञ्चाऽऽव्रियन्ते ज्ञानानीत्येता ज्ञानावृतेभिदः 230 // 25 // // 26 // // 27 // // 28 // // 29 // // 30 //