________________ = = = द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः / अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् // 7 // दोषा राग-द्वेष-मोहाः; सम्भवन्ति न तेऽर्हति / अदुष्टहेतुसम्भूतं, तत् प्रमाणं वचोऽर्हताम् // 8 // नय-प्रमाणसंसिद्धं, पौर्वापर्याविरोधि च / अप्रतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः // 9 // अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधि / अनेकातिशयप्राज्यसाम्राज्यश्रीविभूषितम् // 10 // सुदुर्लभं दूरभव्यैर्भव्यैस्तु सुलभं भृशम् / गणिपिटकतयोच्चैर्नित्यं स्तुत्यं नरा-ऽमरैः // 11 // इमामाज्ञां समालम्ब्य, स्याद्वादन्याययोगतः / द्रव्य-पर्यायरूपेण, नित्या-ऽनित्येषु वस्तुषु // 12 // स्वरूप-पररूपाभ्यां, सदसद्रूपशालिषु / यः स्थिरप्रत्ययो ध्यानं, तदाज्ञाविचयाह्वयम् // 13 // अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् / अपरामृष्टायतीनामपायाः स्युः सहस्रशः // 14 // माया-मोहा-ऽन्धतमसविवशीकृतचेतसा / किं किं नाऽकारि कलुषं ?, कस्कोऽपायोऽप्यवापि न ? // 15 // यद् यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च / मयाऽप्रापि प्रमादोऽयं, ममैव हि विचेतसः // 16 // प्राप्योऽपि परमां बोधि, मनो-वाक्कायकर्मजैः / दुश्चेष्टितैर्मयैवाऽऽत्मशिरसि ज्वालितोऽनलः // 17 // स्वाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः / अहो ! आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातितः // 18 // 229