________________ // 46 // 47 // एवं च तीर्थकृत्कर्मोपार्जनान्यपराण्यपि। स्थानकानि सिषेवेऽसौ, दुर्लभान्यमहात्मनाम् तप एकावलि रत्नावलि च कनकावलिम् / सिंहनिष्क्रीडितं ज्येष्ठं, कनिष्ठं च चकार सः मासोपवासादारभ्य, स कर्तुं कर्मनिर्जराम् / अष्टमासोपवासान्तमुपवासतपो व्यधात् एवं तीव्र तपस्तप्त्वा, कृत्वा संलेखनाद्वयम् / चकाराऽनशनं प्रान्ते, समतैकपरायणः स्मरन् पञ्चपरमेष्ठिनमस्कारं समाहितः। स देहत्यागमकरोनिलयत्यागलीलया // 48 // 49 // 50 // // 1 // // द्वितीयजिनदेशना // असावसारः संसारः, सारबुद्ध्याऽवबुध्यते / काचो वैडूर्यबुद्ध्येव, धिगहो ! मुग्धबुद्धिभिः प्रतिक्षणभवैर्देहभाजां विविधकर्मभिः / . संवर्ध्यते च संसारः, पादपो दोहदैरिव कर्माभावेन संसाराभावो न्यायभवः खलु / / कर्मध्वंसाय सुधिया, यतितव्यं ततः सदा कर्मध्वंस: शुभध्यानात्, तच्च ध्यानं चतुर्विधम् / आज्ञा-ऽपाय-विपाकानां, संस्थानस्य चिन्तनात् आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता / आगमः प्रथमा तावद्धतुवादोऽपरा पुनः शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः / * प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते . // 3 // // 4 // 228