________________ // 34 // // 35 // // 36 // // 37 // // 38 // - // 39 // नाऽयाचितं यतीनां यत्, परदत्तोपजीविनाम् / याच्बादुःखं न चके तनेयेष गृहितां च सः . परात् परार्थं स्वार्थं वा, स लेभेऽन्नादिकं न वा। लाभेऽमाद्यन्न नाऽलाभेऽनिन्दत् स्वमथवा परम् स रोगेभ्यो नोद्विविजे, न च काङ्क्ष चिकित्सितम् / शरीरदात्मभेदज्ञोऽसहताऽदीनमानसः अभूताल्पाणुचेलत्वे, संस्तृतेषु तृणादिषु / सेहे तत्स्पर्शजं दुःखमियेष न च तान् मृदून् ग्रीष्मातपपरिक्लिन्नात्, सर्वाङ्गीणमलादपि / न स उद्विविजे स्नातुं, नैच्छनाऽप्युदवर्तयत् अभ्युत्थानेऽर्चने दाने, न सोऽभूदभिलाषुकः। न व्यषीददसत्कारे, सत्कारेऽपि जहर्षे न. प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्रज्ञतां विदन् / न व्यषीदन्न चाऽमाद्यत्, प्रज्ञोत्कर्षमुपागतः ज्ञान-चारित्रयुक्तोऽस्मि, च्छयस्थोऽहं तथाऽपि हि / इत्यज्ञानं विषेहे स, ज्ञानस्य क्रमलाभवित् जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् / परोक्षत्वान्मृषा नैव, स मेने शुद्धदर्शन: शारीरान् मानसानेवं, स्वपरप्रेरितान् मुनिः / . . परीषहान् विषेहे स, वाक्कायमनसां वशी ध्यानैकतानः सततं, स्वामिनां श्रीमदर्हताम् / चक्रे चैत्यायमानं स, चेतः स्थिरतरं निजम् सिद्धेषु गुरुषु बहुश्रुतेषु स्थविरेषु च / तपस्विषु श्रुतज्ञाने, सङ्घ चाऽभूत् स भक्तिमान् 227 // 40 // // 41 // // 42 // // 43 // // 44 // // 45 //