________________ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः / / नैच्छच्छीतोदकं किन्तु, जग्राह प्रासुकोदकम् .. // 22 // बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः / वासोऽकल्प्यं नाऽऽददे सोऽज्वालयज्ज्वलनं न च / - // 23 // उष्णेन तप्तो नाऽनिन्ददुष्णं छायां च नाऽस्मरत् / वीजनं मज्जनं गात्राभिषेकादि च नाऽकरोत् __ // 24 // दष्टोऽपि दंशैर्मशकैः, सर्वेषां भोज्यलौल्यवित् / त्रासं द्वेषं निरासं स, न चक्रेऽस्थादुपेक्षया // 25 // नाऽस्ति वासोऽशुभं चैतन्नेयेषोभयथाऽपि तत् / समाध्यबाधितो जानन्, लाभालाभविचित्रताम् // 26 // न कदाप्यरति चक्रे, धर्मारामरतिर्यतिः / गच्छंस्तिष्ठनथाऽऽसीनः, स्वास्थ्यमेव स शिश्रिये .. // 27 // दुर्धावसङ्गपाश्च, मोक्षद्वारार्गलाः स्त्रियः / नाऽचिन्तयदसौ ता हि, धर्मनाशाय चिन्तिताः // 28 // ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः / चर्यामेकोऽपि चक्रे स, विविधाभिग्रहैर्युतः // 29 // आसनादौ निषद्यायां, स्त्र्यादिकण्टकवजिते / इष्टानिष्टानुपसर्गान्, स सेहे नि:स्पृहोऽभयः // 30 // शुभाशुभायां शय्यायां, स विषेहे सुखासुखे / रागद्वेषावकुर्वाणः, प्रातस्त्याज्येति चिन्तयन् // 31 // आक्रुष्टोऽपि स नाऽक्रोशत्, क्षमाश्रमणतां विदन् / . किन्तु प्रत्युत मेनेऽसावाक्रोष्टर्युपकारिताम् __ // 32 // विषेहे हन्यमानोऽपि, न तु प्रतिजघान सः / जीवानाशात् क्रुधो दौष्ट्यात्, क्षमया च गुणार्जनात् // 33 // 26