________________ // 10 // = // 11 // = // 12 // = // 13 // = // 14 // = // 15 // ततो ग्राम-पुसरण्याकर-द्रोणमुखादिषु / स व्यहार्षीदविच्छिन्नं, छायेव गुरुणा सह लोकाक्रान्तेऽर्कभास्पृष्टे; जन्तुरक्षाकृते पथि / युगमात्रदत्तदृष्टिः, सोऽगादीविचक्षणः निरवद्यां मितां सर्वजनीनां भारती च सः / महामुनिरभाषिष्ट, भाषासमितिकोविदः द्विचत्वारिंशता भिक्षादोषैरपरिदूषितम् / पारणेष्वाददे पिण्डमेषणानिपुणो हि सः आसनादीनि संवीक्ष्य, यत्नतः प्रतिलिख्य च / अग्रहीन्यक्षिपच्चाऽपि, स आदानविशारदः कफ-मूत्र-मलप्रायं, निर्जन्तुजगतीतले / उत्ससर्ज महासाधुः, स प्राणिकरुणापरः. विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् / स गुणक्षमारुहाराम, आत्मारामं मनो व्यधात् . मौनेन तस्थौ स प्रायः, संज्ञादिपरिहारतः / अनुग्राह्योपरोधेन, यद्यवोचत् तदा मितम् स्तम्भबुद्ध्या महिषाद्यैः, स्कन्धकण्डूयनेच्छुभिः / बाढमुद्धृष्यमाणोऽपि, कायोत्सर्ग जहौ न सः शयनासननिक्षेपादानचङ्क्रमणादिषु / . स्थाने च चेष्टानियम, स चकार महामनाः इत्थं चारित्रगात्रस्य, जननत्राणशोधनैः / मातृभूताः स समितिगुप्तीरष्टाऽप्यधारयत् क्षुधातः शक्तिसम्पन्न एषणामविलयन् / सोऽदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतोऽचरते = // 16 // = // 17 // = // 18 // = // 19 // = // 20 // = // 21 // 25