________________ रत्नत्रयमिदं सम्यग्, यतिभिः श्रावकैरपि / उपासनीयं सततं, निर्वाणप्राप्तिहेतवे // 88 // ॥विमलवाहननृपस्य भावना // कृत्याकृत्यविदस्तस्य, सारासारं विविञ्चतः / अन्येधुरेवमुत्पेदे, भववैराग्यवासना // 1 // योनिलक्षमहावर्तनिपातक्लेशभीषणः / पारावार इवाऽपारः, संसारो धिगसावहो ! // 2 // इहेन्द्रजालवत् स्वप्नजालवच्च भवे हहा ! / क्षणाद् दृष्टैः क्षणानष्टैरथैर्मुह्यन्ति जन्तवः // 3 // यौवनं पवनोद्भूतपताकाञ्चलचञ्चलम् / आयुः कुशाग्रविश्रान्तजलबिन्दुचलाचलम् // 4 // अमुष्याऽप्यायुषो गर्भवासे नरकवासवत् / अत्यन्तदुःखाद् गच्छन्ति, ममसा: पल्योपमोपमाः // 5 // अथ जातस्य बालत्वेऽप्यायुर्भागः कियानपि / परप्रणेयस्य सतो, मुधाऽन्धस्येव गच्छति // 6 // इन्द्रियार्थरसस्वादुरसास्वादेन यौवने / मत्तस्येव वृथा गच्छत्यायुरंशः कियानपि // 7 // त्रिवर्गसाधनाशक्तवपुषश्च वपुष्मतः / आयुः शेषं वृथा याति, प्रसुप्तस्येव वार्द्धक इत्थं विदन्नपि भवी, भवायैव विचेष्टते / कामं रोगीव रोगाय, विषयास्वादलम्पटः // 9 // यौवने विषयेभ्योऽसौ, यथा ह्यत्तिष्ठते भवी / तथोत्तिष्ठेत चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् ? // 10 217 // 8 //