________________ // 76 // 77 // // 78 // // 79 // ... // 80 // // 81 // कन्यागोभूम्यलीकानि, न्यासापहरणं तथा। कूटसाक्ष्यं च पञ्चेति, स्थूलासत्यानि सन्त्यजेत् दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् / अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् षण्ढत्वमिन्द्रियच्छेदं, वीक्ष्याऽब्रह्मफलं सुधीः / भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् असन्तोषमविश्वासमारम्भं दुःखकारणम् / / मत्वा मूर्छफलं कुर्यात्, परिग्रहनियन्त्रणम् दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते / ख्यातं दिग्विरतिरिति, प्रथमं तद् गुणव्रतम् भोगोपभोगयोः सङ्ख्या, शक्त्या यत्र विधीयते / भोगोपभोगमानं तद्, द्वैतीयीकं गुणव्रतम् आर्त रौद्रमपध्यानं, पापकर्मोपदेशिता / हिंसोपकारिदानं च, प्रमादाचरणं तथा शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः / . योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः / मुहूर्तं समता या तां, विदुः सामायिकव्रतम् दिग्व्रते परिमाणं यत्, तस्य सङ्खपणं पुनः / दिने रात्रौ च देशावकाशिकव्रतमुच्यते चतुष्पा चतुर्थादि, कुव्यापारनिषेधनम् / ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् / / अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् / // 82 // // 83 // // 84 // // 85 // // 87 // 216