________________ // 64 // // 65 // // 66 // // 67 // // 68 // // 69 // जन्मिनो यच्छ्रुताऽज्ञानं, तच्छुतज्ञानतां भजेत् / विभङ्गज्ञानमवधिज्ञानभावं च गच्छति सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते / कीर्तितं तदहिसादिव्रतभेदेन पञ्चधा . अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः / पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये न यत् प्रमादयोगेन, जीवितव्यपरोपणम् / त्रसानां स्थावराणां च, तदहिसाव्रतं मतम् प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते / तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् अनादानमदत्तस्याऽस्तेयव्रतमुदीरितम् / बाह्याः प्राणा नृणामर्थो, हरता तं हता हि ते दिव्यौदारिककामानां, कृताऽनुमतकारितैः / मनोवाक्कायतस्त्यागो, ब्रह्माऽष्टादशधोदितम् सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः / यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः / सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् / यतिधर्मानुरक्तानां, देशतः स्यादंगारिणाम् / / सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि गुणास्त्रयः / शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् पङ्गकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः / निरागस्त्रसजन्तूनां, हिंसां सङ्कल्पतस्त्यजेत् मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् / वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् . 215 // 70 // // 71 // // 72 // // 73 // // 74 // // 75 //