________________ // 52 // // 53 // * // 54 // // 55 // // 56 // // 57 // शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः / . सम्यक्त्वं क्षायिकं नाम, पञ्चमं जायते पुनः सम्यग्दर्शनमेतच्च, गुणतस्त्रिविधं भवेत् / रोचकं दीपकं चैव, कारकं चेति नामतः तत्र श्रुतोक्ततत्त्वेषु, हेतूदाहरणैर्विना / दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् / कारकं संयमतपःप्रभृतीनां तु कारकम् / शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः / लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु लक्ष्यते अनन्तानुबन्धिकषायाणामनुदयः शमः / . स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ध्यायतः कर्मविपाकं, संसारासारतामपि / यत् स्याद् विषयवैराग्यं, स संवेग इतीरितः संसारवास: कारैव, बन्धनान्येव बन्धवः / ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते एकेन्द्रियप्रभृतीनां, सर्वेषामपि देहिनाम् / भवाब्धौ मज्जतां क्लेशं, पश्यतो हृदयार्द्रता तदुःखैर्दुःखितत्वं च, तत्प्रतीकारहेतुषु / यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाऽभिधीयते तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वार्हतेषु तु / प्रतिपत्तिनिराकाङ्क्षा, तदास्तिक्यमुदीरितम् सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि। मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां व्रजेत् 214 // 58 // // 59 // // 60 // // 61 // // 62 // // 63 //