________________ स्वयङ्कृतैः कर्मपाशैः, स्वं भवी वेष्टयत्यहो ! / स्वलालातन्तुसन्तत्या, जालकार इव कृमिः // 11 // अम्भोधौ युगशमिलाप्रवेशन्यायतो भवे / कथञ्चिन्मानुषं जन्म, लभ्यते पुण्ययोगतः // 12 // तत्राऽपि चाऽऽर्यदेशेषु, जन्मिनो जन्म जायते / महतश्च कुलस्याऽऽतिः, सेवा गुरुकुलस्य च ' // 13 // . इति प्राप्याऽपि सामग्री, शिवाय यतते न यः / सम्पन्नायां रसवत्यां, स तिष्ठति बुभुक्षितः // 14 // उभयोरपि चोर्ध्वाऽधोगत्योः स्वायत्तयोरिह। धावत्यधोमुखं प्रायो, जडधी लवज्जनः // 15 // समये साधयिष्यामि, स्वार्थमित्याशयं वहन् / प्राप्यतेऽर्वाग् यमदूतैररण्ये तस्करैरिव / // 16 // कृत्वाऽघमपि यान् पुष्येत्, तेषामुत्पश्यतामपि / अत्राणो रङ्कवज्जन्तुः, कृष्ट्वा कालेन नीयते // 17 // ततश्च नीतो नरके, लभतेऽनन्तवेदनाः। . जन्मान्तरानुधावीनि, कर्माणि ऋणवन्नृणाम् // 18 // माताऽसौ मे पिता चाऽसौ, भ्राताऽसावङ्गभूरसौ। इति स्वबुद्धिर्मिथ्यैव, शरीरमपि न स्वकम् // 19 // एषां पृथक् पृथक् स्थानादेयुषामिह केवलम् / एकत्राऽवस्थितिः स्थाने, पक्षिणामिव पादपे // 20 // ततोऽप्यन्यत्र गच्छन्ति, पृथक् स्थानेषु देहिनः / नक्तमेकत्र शयिताः, पान्था इव निशात्यये // 21 // अरघट्टघटीन्यायेनैहिरेयाहिरामिह / कुर्वतां देहिनां हन्त !, कः स्वकः ? कः परोऽथवा ? // 22 // 29