________________ / . 24 // .. पूर्वप्रभावरहिते, चतुर्थे त्वरके नराः / पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः / षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रया: एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः / पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि . // 26 // // संसारस्वरूपम् // भूयोऽप्यचिन्तयदिदं, विगलन्मोहबन्धनः / धिगेष विषयाक्रान्तो, वेत्ति नाऽऽत्महितं जनः अहो ! संसारकूपेऽस्मिन्, जीवाः कुर्वन्ति कर्मभिः / अरघट्टघटीन्यायेनैहिरेयाहिराकियाम् , धिग् धिग् मोहान्धमनसां, जन्मिनां जन्म गच्छति / सर्वथाऽपि मुधैवेदं, सुप्तानामिव शर्वरी एते रागद्वेषमोहा, उद्यन्तमपि देहिनाम् / मूलाद् धर्म निकृन्तन्ति, मूषिका इव पादपम् अहो ! विवय॑ते मुग्धैः, क्रोधो न्यग्रोधवृक्षवत् / अपि वर्द्धयितारं स्वं, यो भक्षयति मूलतः न किञ्चिन्मानवा मानाधिरूढा गणयन्त्यमी / मर्यादालचिनो हस्त्यारूढा हस्तिपका इव कपिकच्छूबीजकोशीमिव मायां दुराशयाः / उपतापकरी नित्यं, न त्यजन्ति शरीरिणः दुग्धं तुषोदकेनेवाऽञ्जनेनेव सितांशुकम् / . . निर्मलोऽपि गुणग्रामो, लोभेनैकेन दूष्यते 208 // 8 //