________________ // 12 // // 13 // // 14 // // 15 // स्वादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः / भाजनादीनि भृङ्गाश्च, तद्भाण्डागारिका इव तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु / उद्द्योतमसमं दीपशिखा ज्योतिषिका अपि विचित्राणि तु चित्राङ्गा, माल्यानि समढौकयन् / सूदा इव चित्ररसा, भोज्यानि विविधानि तु यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु / गेहाकाराः सुगेहानि, गन्धर्वपुरवत् क्षणात् अभग्नेच्छमनग्नास्तु, वासांसि समपादयन् / एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः तदा च भूमयस्तत्र, स्वादवः शर्करा इव / सदा माधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि. अतिक्रामत्यरे तत्र, त्वायु:संहननादिकम् / कल्पद्रुमप्रभावाश्च, न्यूनं न्यूनं शनैः शनैः द्वितीये त्वरके माः, पल्यद्वितयज़ीविनः / गव्यूतद्वितयोच्छायास्तृतीयदिनभोजिनः किञ्चिन्न्यूनप्रभावाश्च, तत्र कल्पमहीरुहः / / // 16 // // 18 // // 19 // // 20 // // 21 // अस्मिन्नप्यरके कालात्, पूर्वारक इवाऽखिलम् / न्यूनन्यूनतरं स्थौल्यं, स्तम्बेरमकरे यथा' अरके तुं तृतीयस्मिन्नेकपल्यायुषो नराः / एकगव्यूतकोच्छाया, द्वितीयदिनभोजिनः अस्मिन्नप्यरके प्राग्वत्, कामति न्यूनमेव हि / वपुरायु माधुर्य, कल्पद्रुमहिमाऽपि च .207 // 22 // // 23 //