________________ // 1 // . . W. // 3 // // 4 // // द्वादशारककालचक्रस्य स्वरूपम् // भारतेषु च वर्षेषु, पञ्चस्वैरवतेष्विव / द्वादशारं कालचक्रं, हेतुः कालव्यवस्थितेः कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः / / अराः षडवसर्पिण्यां, एकान्तसुषमादयः तत्रैकान्तः सुषमारश्चतस्त्र: कोटिकोटयः / सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः / सैका सहस्रैर्वर्षाणां, द्विचत्वारिंशतोनिता . एकविंशतिरब्दानां, सहस्राणि तु दुःषमा / एकान्तदुःषमाऽपि स्यात्, तावद्वर्षप्रमाणिका अरका अवसर्पिण्यां, य एते समुदीरिताः / उत्सर्पिण्यां त एव स्युः, प्रतिलोमक्रमेण तु तदेवमवसर्पिण्यामुत्सर्पिण्यां च मीलिताः / सागरोपमकोटीनां, कोटयः खलु विंशतिः // 7 // तत्राऽरे प्रथमे माः, पल्यत्रितयजीविनः / गव्यूतत्रितयोच्छायाश्चतुर्थदिनभोजिनः // 8 // चतुरस्रसुसंस्थानाः, सर्वलक्षणलक्षिताः / वज्रऋषभनाराचसंहननाः सदासुखाः // 9 // अपक्रोधा गतमाना, निर्माया लोभवर्जिताः / सर्ववारं स्वभावेनाऽप्यधर्मपरिहारिणः // 10 // प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशम् / मद्याङ्गाद्याः कल्पवृक्षा, दशोत्तरकुरुष्विव . // 11 // 206