________________ // 11 // // 12 // // 13 // // 14 // // 15 // ज्ञानदर्शनचारित्रोपचारैश्च चतुर्विधः / कर्मणां विनयनतो; विनयो दशमं पुनः इच्छमिथ्याकरणादियोमेष्वावश्यकेष्वलम् / अतीचारपरीहारो, यत्नादेकादशं तु तत् अहिंसादिसमित्यादिमूलोत्तरगुणेषु या / प्रवृत्तिनिरतीचारा, स्थानकं द्वादशं तु तत् शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे / प्रमादपरिहारेण, स्थानमेतत् त्रयोदशम् अनाबाधेन मनसो, वपुषश्च निरन्तरम् / यथाशक्ति तपःकर्म, स्थानमेतच्चतुर्दशम् अन्नादीनां संविभागो, यथाशक्ति तपस्विषु / मनोवाक्कायशुद्ध्या यः, स्थानं पञ्चदशं हि तत् आचार्यादीनां दशानां, भक्तपानाऽऽसनादिभिः / वैयावृत्यस्य करणं, स्थानकं षोडशं तु तत् . चतुर्विधस्य सङ्घस्य, सर्वापायनिषेधनात् / मनःसमाधिजननं, स्थानं सप्तदशं हि तत् सूत्रस्याऽर्थस्योभयस्याऽप्यपूर्वस्य प्रयत्नतः / अन्वहं यदुपादानं स्थानमष्टादशं तु तत् श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना / . . श्रुतज्ञानस्य भक्तिस्तत्, स्थानमेकोनविंशकम् / विद्यानिमित्तकवितावादधर्मकथादिभिः / प्रभावना शासनस्य, तद् विंशतितमं पुनः // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // ... 205