________________ लब्धीनामुपयोगं ते, जगृहुर्न कदाचन / . भोलि . मुमुक्षवो निराकाङ्क्षा, वस्तुषूपस्थितेष्वपि // 45 // // 1 // ॥विंशतिस्थानकस्वरूपम् // इतश्च तीर्थकृन्नामगोत्रकर्मार्जितं दृढम् / स्वामिना वज्रनाभेन, विंशत्या स्थानकैरिति तत्रैकमर्हतामहत्प्रतिमानां च पूजया / अवर्णवादनिषेधैः, सद्भूतार्थस्तवैरपि // 2 // सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः / यथावस्थितसिद्धत्वकीर्तनाच्च द्वितीयकम् // 3 // बालक-ग्लान-शैक्षादियतीनां यस्त्वनुग्रहः / प्रवचनस्य वात्सल्यं, स्थानकं तत् तृतीयकम् .. // 4 // आहारौषधवस्त्रादिदानादञ्जलियोजनात् / गुरूणामतिवात्सल्यकरणं तु तुरीयकम् // 5 // विंशत्यब्दपर्यायाणां, षष्टिवर्षायुषां तथा / समवायभृतां भक्तिः, स्थविराणां तु पञ्चमम् अर्थव्यपेक्षया स्वस्माद्, बहुश्रुतभृतां सदा / अन्नवस्त्रादिदानेन, षष्ठं वात्सल्यनिर्मितिः सुविकृष्टतपःकर्मनिर्माणानां तपस्विनाम् / भक्तिर्विश्रामणादानैर्वात्सल्यमिति सप्तमम् द्वादशाङ्गे श्रुते प्रश्नवाचनादिभिरन्वहम् / सूत्राऽर्थोभयगो ज्ञानोपयोगो यस्तदष्टमम् // 9 // शङ्कादिदोषरहितं, स्थैर्यादिगुणभूषितम् / शमादिलक्षणं सम्यग्दर्शनं नवमं पुनः // 10 // 204 // 8 //