________________ // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // अभूवनमृतक्षीरमध्वाज्यास्रविणश्च ते / पात्रस्थस्य कदनस्याऽप्यमृतादिरसागमात् दुःखादितेष्वमृतादिंपरिणामाद् गिरां च ते / अमृतक्षीरमध्वाज्यास्रविणः साधु जज्ञिरे अन्नस्य पात्रपतितस्याऽल्पस्याऽप्यतिदानतः / अक्षयेणाऽक्षीणमहानसर्द्धयश्च तेऽभवन् तीर्थकृत्पर्षदीवाऽल्पदेशेऽपि प्राणिनां सुखम् / असङ्घयानां स्थितेरासंस्ते चाऽक्षीणमहालयाः एकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थस्योपलम्भनात् / ते बभूवुश्च सम्भिन्नस्रोतोलब्धिमहर्द्धयः जङ्घाचारणलब्धिश्च, तेषामजनि. सा यया। . रुचकद्वीपमेकेनोत्पातेन प्राप्तुमीश्वराः वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते / नन्दीश्वरेऽलमायातुं, द्वितीयेन यतो गताः / ते चोर्ध्वगत्यामेकेन, समुत्पतनकर्मणा / उद्यानं पाण्डकं गन्तुमलं मेरुशिरःस्थितम् / ततस्ते वलिता एकेनोत्पातेन तु नन्दनम् / अलं गन्तुं द्वितीयेन, प्रथमोत्पातभूमिकाम् ते विद्याचारणाऽऽतुमेकेनोत्पातकर्मणा / मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरं क्षमाः एकोत्पातात् ततश्चाप्तुं, पूर्वोत्पातमहीतलम् / तिर्यग्यानक्रमेणोर्ध्वमप्यलं ते गतागते आसीदाशीविषर्द्धिश्च, निग्रहाऽनुग्रहक्षमा / तेषामन्या अप्यभूवन्, बहुलं बहुलब्धयः 203 // 39 // // 40 // // 41 // // 42 // // 43 // // 44 //