________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // साऽभूत् प्राकाम्यशक्तिश्च, भुवीवाऽप्सु यया गतिः / निमज्जनोन्मज्जने च, पानीय इव भुव्यपि आसीत् तेषां तदैश्वर्य, प्रभवन्ति स्म येन ते / चक्रभृत्रिदशाधीशऋद्धिमाधातुमात्मनः तेषां वशित्वसामर्थ्य, तदपूर्वमजायत / भेजिरे वशितां येन, स्वतन्त्राः क्रूरजन्तवः तेषामप्रतिघातित्वशक्तिः साऽभूद् यया खलु / अद्रिमध्येऽपि निःसङ्गं, गमनं रन्ध्रमध्यवत् तदन्त नसामर्थ्यमभूत् तेषामनाहतम् / / नभस्वतामिवाऽदृश्यरूपता येन सर्वतः प्रावीण्यं कामरूपित्वे, तत् तेषामुललास च / अलं पूरयितुं लोकं, नानारूपैर्यथा निजैः तेषामाविरभूद् बीजबुद्धिता सातिशायिनी / एकार्थबीजतोऽनेकार्थबीजानां प्ररोहिणी ते कोष्ठबुद्धयोऽभूवन्, कोष्ठप्रक्षिप्तधान्यवत् / विना स्मरणमर्थानां, प्राक् श्रुतानां तथास्थितेः आद्यादन्त्यान्मध्यमाद् वा, श्रुतादेकपदादपि / सर्वार्थग्रन्थबोधात् तेऽभूवन् पदानुसारिणः एकं वस्तु समुद्धृत्याऽन्तर्मुहूर्ताच्छुतोदधेः / अवगाहनसामर्थ्यात्, ते मनोबलिनोऽभवन् अन्तर्मुहूर्त्तमात्रेण, मातृकामावलीलया / गुणयन्तः श्रुतं सर्वमासन् वाग्बलिनश्च ते प्रपद्यमानाः प्रतिमां, चिरकालमपि स्थिराम् / श्रमक्लमाभ्यां रहितास्ते कायबलिनोऽभवन् / // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // 202