________________ // 9 // // 10 // // 11 // // 12 // कषाया भवकारायां, चत्वारो यामिका इव / यावज्जाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? अङ्गनालिङ्गनव्यग्रा, भूतात्ता इव देहिनः / समन्ततः क्षीयमाणमप्यात्मानं न जानते तत्तत्प्रकारैराहारैरात्मनोन्माद आत्मनः / उत्पाद्यतेऽनर्थकृते, सिंहारोग्यमिवौषधैः सुगन्धीदं सुगन्धीदं किं श्रयामीति लम्पटः ? / मूढो भ्रमरवद् भ्राम्यन्न जातु लभते रतिम् आपातरमणीयैधिग्, रमणीप्रायवस्तुभिः / प्रतारयति लोकः स्वं, बालं क्रीडनकैरिव वेणुवीणादिनादेषु, दत्तको निरन्तरम् / स्वार्थाद् भ्रश्यति निद्रालुरिव शास्त्रानुचिन्तनात् युगपद् विषयैरेभिर्वातपित्तकफैरिव / लुप्यते प्रबलीभूतैश्चैतन्यं धिक् शरीरिणाम् एवं संसारवैराग्यचिन्तासन्ततितन्तुभिः / निःस्यूतमानसो यावद्, बभूव परमेश्वरः // 13 // // 14 // // 15 // // 16 // // 1 // ॥प्रथमजिनदेशना // आधिव्याधिजरामृत्युज्वालाशतसमाकुलः / / प्रदीप्तागारकल्पोऽयं, संसारः सर्वदेहिनाम् / 'न युज्यते तद् विदुषः, प्रमादोऽत्र मनागपि / कः प्रमाद्यति बालोऽपि, निशोल्लङ्घये मरुस्थले ? संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनैः / दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् // 3 // . 200