________________ // 93 // // 94 // // 95 // // 96 // तथैहिकसुखं हित्वा, परलोकाय धाविताः / आत्मानमुभयभ्रष्टा, वञ्चयन्ते हि ते नराः पाखण्डिनामलीकाज्ञां, श्रुत्वा नरकभीरवः / दण्डयन्ति निजं देहमहो ! मोहाद् व्रतादिना यथा क्षमापातशङ्कयेकाघ्रिणा नृत्यति लावकः / तथाऽभिशङ्कय नरकपातं जन्तुस्तपस्यति स्वयम्बुद्धोऽब्रवीद् वस्तु, न सच्चेदर्थकृत् कथम् ? / माया चेदीदृशी तर्हि, स्वप्नेभः किं न कार्यकृत् ? कार्यकारणभावं चेद्, वस्तुनां पारमार्थिकम् / न मन्यसे तदा किं त्वं, बिभेषि पततोऽशनेः ? एवं सति न त्वं नाऽहं, न वाच्यं न च वाचकः / तदेष्टप्रतिपत्तिः स्याद्, व्यवहारकरी कथम् ? वितण्डापण्डितैरेभिः, स्वयं विषयगृनुभिः / देव ! प्रतार्यसे नित्यं, शुभोदर्कपराङ्मुखैः . ततो विवेकमालम्ब्य, विषयांस्त्यज दूरतः / धर्ममेवाश्रय स्वामिन्नत्राऽमुत्र च शर्मणे // 98 // // 99 // // 100 // // 1 // - ॥श्रीयुगन्धरमुनेर्देशना // स्वकर्मपरिणामेनोत्पद्यन्ते नरकावनौ। . . भैदिकाश्छैदिकाः शीर्षच्छेद्याश्चाऽपि शरीरिणः : तिलपीडं निपीड्यन्ते, यन्त्रैस्तत्र हि केचन / दारुदारं च दार्यन्ते, क्रकचैः केऽपि दारुणैः शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् / असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले . // 2 // 10.