________________ ऊचे ततः शतमतिर्मात्मा कश्चिदिहाऽपरः / पदार्थविषयज्ञानात्, प्रतिक्षणविभङ्गात् - // 81 // यद्वस्तुषु स्थिरत्वे धीर्वासना तत्र कारणम् / .. पूर्वापरक्षणानां तदेकत्वं वास्तवं न तु // 82 // अथोवाच स्वयम्बुद्धो, वस्तु नास्ति निरन्वयम् / अम्भस्तृणादि हि गवां, हन्त ! दुग्धाय कल्पते // 83 // आकाशपुष्पवत् कूर्मरोमवच्च निरन्वयम् / नैव वस्तु भवत्यत्र, तद् वृथा क्षणभङ्गधीः // 84 // वस्तु चेत् क्षणविध्वंसि, सन्तानः क्षणिको न किम् ? / सन्तानस्य च नित्यत्वे, समस्तं क्षणिकं कुतः ? // 5 // सर्वभावेष्वनित्यत्वे, निहिंतप्रतिमार्गणम् / स्मरणं प्रत्यभिज्ञा च, कथं नामोपपद्यते ? जन्मानन्तरनाशित्वे, द्वितीयक्षणसम्भवी / पित्रोर्न पुत्रः पितरौ, नं पुत्रस्येत्यसङ्गतिः .. // 87 // विवाहसमयादूचं, जम्पत्योः क्षणनाशिनोः / न जायायाः पतिः पत्युर्न जायेत्यसमञ्जसम् // 88 // इह कृत्वाऽशुभं कर्म, स नाऽमुत्राऽश्रुते फलम् / भुङ्क्तेऽन्यः किन्तु तदिति, कृतनाशाऽकृतागमौ // 89 // तुर्योऽप्युवाच मायाऽसौ, तत्त्वतो नाऽस्ति किञ्चन / दृश्यमानमपि स्वप्न-मृगतृष्णादिसन्निभम् // 90 // गुरुः शिष्यः पिता पुत्रो, धर्मोऽधर्मो निजः परः / . इत्यादि दृश्यते यत् स, व्यवहारो न तात्त्विकम् // 91 // विहाय जम्बुको मांसं, तीरे मीनाय धावितः / / मीनोऽथ प्राविशत् तोये, मांसं गृध्रोऽहरद् यथा // 92 // . 1