________________ // 4 // // 7 // . // 8 // कुट्यन्ते केऽप्ययस्पात्राणीव लोहघनैर्धनैः / / खण्ड्यन्ते शाकपणिका, इव केचन खण्डशः भूयोऽपि मिलिताङ्गास्ते, भूयो भूयस्तथैव हि / तदुःखमनुभाव्यन्ते, क्रन्दन्तः करुणस्वरम् पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः / छायार्थिनो निषाद्यन्ते, चाऽसिपत्रतरोस्तले मुहूर्तमपि न स्थातुं, लभन्ते वेदनां विना / नरके नारकाः कर्म, स्मार्यमाणाः पुराकृतम् वत्से ! नारकषण्ढानां, यद् दुःखं तदशेषतः / श्राव्यमाणमपि प्राणभाजां दु:खाय जायते किञ्च प्रत्यक्षमीक्ष्यन्ते, जल-स्थल-खचारिणः / प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् तत्र वारिचराः स्वैरं, खादन्त्यन्योन्यमुत्सुकाः / धीवरैः परिगृह्यन्ते, गिल्यन्ते च बकादिभिः .. उत्कील्यन्ते त्वचयद्भिर्भुज्यन्ते च भटित्रवत् / भोक्तुकामैर्विपच्यन्ते, निगाल्यन्ते वसार्थिभिः प्राणिनश्च स्थलचरा, अबला बलवत्तरैः / मृगाद्या सिंहप्रमुखैार्यन्ते मांसकामिभिः मृगयासक्तचित्तैश्च, क्रीडया मांसकाम्यया / / नरैस्तत्तदुपायेन, हन्यन्तेऽनपराधिनः क्षुधा-पिपासा-शीतोष्णा-ऽतिभारारोपणादिना / कशा-ऽङ्कुश-प्रतोदैश्च, सहन्ते वेदनाममी खेचरास्तित्तिरि-शुक-कपोत-चटकादयः / श्येन-शिश्चान-गृध्राद्यैर्गृह्यन्ते मांसगृनुभिः / 198 // 10 // // 12 // // 13 // . // 14 // / // 15 //