________________ // 12 // अस्मिन्नपारे संसारपारावारे शरीरिणाम् / महारत्नमिवाऽनयं, मानुष्यमतिदुर्लभम् .. मानुष्यकेऽपि सम्प्राप्ते, प्राप्यन्ते पुण्ययोगतः / देवता भगवानहन्, गुरवश्च सुसाधवः मानुष्यकस्य यद्यस्य, वयं नादद्महे फलम् / मुषिताः स्म तदधुना, चौरैर्वसति पत्तने . // 13 // . // 14 // .. ॥स्वयंबुद्धमन्त्रिणो नृपायोपदेशः // आसंसारं सरिनाथः, किं तृप्यति सरिज्जलैः ? / सरित्पतिपयोभिर्वा, किमेष वडवानलः ? अन्तको जन्तुभिः किं वा ?, किमेधोभिर्हताशनः ? / सुखैर्वैषयिकैरात्मा, किं तथैष कदाचन ? // 2 // कूलच्छाया दुर्जनाश्च, विषं च विषयास्तथा / दन्दशूकाश्च जायन्ते, सेव्यमाना विपत्तये // 3 // आसेव्यमानस्तत्कालसुखोऽन्तविरसः स्मरः / कण्डूय्यमाना पामेव, निकामं च प्रवर्द्धते // 4 // कामोऽयं नरकदूतः, कामो व्यसनसागरः / कामो विपल्लताकन्दः, कामः पापद्रुसारणिः मदनेन मदेनेव, जनः परवशीकृतः। / संदाचारपथभ्रष्टः, पतत्येव भवावटे अर्थं धर्म च मोक्षं च, वेश्मेव गृहमेधिनः / आसादितप्रवेशोऽयं, खनत्याखुरिव स्मरः // 7 // . दर्शनेन स्पर्शनेनोपभोगेन च निर्भरम् / व्यामोहायैव जायन्ते, विषवल्लय इव स्त्रियः . . . . 180 // 8 //