________________ रा // 3 // // 4 // ॥शतबलनृपस्य भावना // विधाय सहजाऽशौचमुपस्कारैर्नवं नवम् / गोपनीयमिदं हन्त !, कियत्कालं कलेवरम् ? .. // 1 // सत्कृतोऽनेकशोऽप्येष, सक्रियेत यदापि न / ... तदापि विक्रियां याति, कायः खलु खलोपमः .. अहो ! बहिर्निपतितैर्विष्ठा-मूत्र-कफादिभिः / हृणीयन्ते प्राणिनोऽमी, कायस्याऽन्तःस्थितैर्न किम् ? रोगाः समुद्धवन्त्यस्मिन्नत्यन्तातङ्कदायिनः / दन्दशूका इव क्रूरा, जरविटपिकोटरे निसर्गाद् गत्वरश्चाऽयं, कायोऽब्द इव शारदः / दृष्टनष्टा च तत्रेयं, यौवनश्रीस्तडिन्निभा, आयुः पताकाचपलं, तरङ्गतरलाः श्रियः / भोगिभोगनिभा भोगाः, सङ्गमाः स्वप्नसन्निभाः काम-क्रोधादिभिस्तापैस्ताप्यमानो दिवानिशम् / आत्मा शरीरान्तःस्थोऽसौ, पच्यते पुटपाकवत् विषयेष्वतिदुःखेषु, सुखमानी मनागपि / नाहो ! विरज्यति जनोऽशुचिकीट इवाऽशुचौ // 8 // दुरन्तविषयास्वादपराधीनमना जनः / अन्धोऽन्धुमिव पादारस्थितं मृत्युं न पश्यति आपातमात्रमधुरैविषयैर्विषसन्निभैः / आत्मा मूर्छित एवाऽऽस्ते, स्वहिताय न चेतति // 10 // तुल्ये चतुर्णां पौमर्थ्य, पापयोरर्थकामयोः / आत्मा प्रवर्तते हन्त !, न पुनर्धर्ममोक्षयोः // 11 // // 7 // 188