________________ // 12 // पापा.. // 14 // // 15 // // 16 // // 17 // ज्ञानदानादवाप्नोति, केवलज्ञानमुज्ज्वलम् / अनुगृह्याऽखिलं लोकं, लोकाग्रमधिगच्छति भवत्यभयदानं तु, जीवानां वधवर्जनम् / मनो-वाक्कायैः करण-कारणा-ऽनुमतैरपि तत्र जीवा द्विधा ज्ञेयाः, स्थावर-त्रसभेदतः / / द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः पर्याप्तयस्तु षडिमाः, पर्याप्तत्वनिबन्धनम् / आहारो वपुरक्षाणि, प्राणो भाषा मनोऽपि च स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम् / चतस्त्रः पञ्च षड् वाऽपि, पर्याप्तयो यथाक्रमम् एकाक्षाः स्थावरा भूम्यतेजोवायुमहीरुहः / तेषां तु पूर्वे चत्वारः, स्युः सूक्ष्मा बादरा अपि प्रत्येकाः साधारणाश्च, द्विप्रकारा महीरुहः / साधारणा अपि द्वेधा, सूक्ष्म-बादरभेदतः त्रसा द्वि-त्रि-चतुः पञ्चेन्द्रियत्वेन चतुर्विधाः / तत्र पञ्चेन्द्रिया द्वेधा, संज्ञिनोऽसंज्ञिनोऽपि च शिक्षोपदेशाऽऽलापान् ये, जानते ते तु संज्ञिनः / सम्प्रवृत्तमनः प्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् / तस्य स्पर्शो रसो गन्धो, रूपं शब्दश्च गोचरः द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदा जलौकसः / कपर्दकाः शुक्तयश्च, विविधाकृतयो मताः यूकामत्कुण-मर्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः। .. पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // 184