________________ = // 2 // = // 4 // = // त्रिषष्ठीयदेशनासंग्रह // ॥धर्मघोषसूरेर्देशना / धर्मघोषसूरयोऽपि, मेघनिर्घोषया गिरा / श्रुतकेवलिदेशीयां, दिदिशुर्देशनामिमाम् धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गापवर्गदः / धर्मः संसारकान्तारोल्लङ्घने मार्गदेशक: धर्मो मातेव पुष्णाति, धर्मः पाति पितेव च / धर्मः सखेव प्रीणाति, धर्मः स्नित्ति बन्धुवत् धर्मः सङ्क्रमयत्युच्चैर्गुणान् गुरुरिवोज्ज्वलान् / धर्मः प्रकृष्टां स्वामीव, प्रतिष्ठां च प्रयच्छति धर्मः शर्ममहाहवें, धर्मो वर्माऽरिसङ्कटे / धर्मो जाड्यच्छिदाधर्मो, धर्मो मर्माविदंहसाम् धर्माज्जन्तुर्भवेद् भूपो, धर्माद् रामोऽर्धचक्यपि / . धर्माच्चक्रधरो धर्माद, देवो धर्माच्च वासवः . ग्रैवेयकाऽनुत्तरेषु, धर्माद् यात्यहमिन्द्रताम् / धर्मादार्हन्त्यमाप्नोति, किं किं धर्मान्न सिध्यति ? दुर्गतिप्रपतज्जन्तुधारणाद् धर्म उच्यते / दान-शील-तपो-भावभेदात् स तु चतुर्विधः . तत्र तावद् दानधर्मस्त्रिप्रकारः प्रकीर्तितः / . . ज्ञानदाना-ऽभयदान-धर्मोपग्रहदानतः दानं धर्मानभिज्ञेभ्यो, वाचनादेशनादिना / ज्ञानसाधनदानं च, ज्ञानदानमितीरितम् ज्ञानदानेन जानाति, जन्तुः स्वस्य हिताहितम् / वेत्ति जीवादितत्त्वानि, विरतिं च समश्रुते . 183 = = // 7 // // 8 // // 9 // // 10 // // 11 //