________________ तृणवत्तांश्च निर्मुच्य, दीक्षित्वा जिनशासने / उत्कृष्टाराधनो लब्ध्वा, केवलज्ञानसम्पदम् // 237 // अयोगितां समासाद्य, सर्वकर्मसमुज्झितः / प्राप्नोति श्रायसं धाम, यत्र शाश्वतिकं सुखम् // 238 // शाश्वतं यत्र च ज्ञानं, शाश्वतं यत्र दर्शनम् / / शाश्वतं यत्र वीर्यं च, सम्यक्त्वं यत्र शाश्वतम् // 239 // इत्थं सूरिजिनेश्वरैनिनपतिश्रीसूरिशिष्यैः कृतः, शुद्धः श्रावकधर्म एव विधिना संसेव्यमानो बुधैः / श्रौतार्थच्छद ऋद्धिमान् सुसुमनोहत्क्षेत्रमध्योद्गतः, श्रेयःशर्मफलं फलिष्यति सतां श्रीकल्पवृक्षो यथा // 240 // विक्रमवर्षे शिखिशशिशिखिशशिसङ्ख्ये प्रभावतः शशिनोः / श्रीप्रल्हादनपुरमनुविजयदशम्यां धनिष्ठाभे // 241 // श्रावकधर्मप्रकरणमुपकारकरं विशेषतो गृहिणाम् / परिपूर्णीकृतमनघं, भवतु मुदे सकलसवस्य . // 242 // पठतां शठतां त्यजतां भजतां प्रशमं सदोपदिशतां च / आकर्णयतां च सतां ददातु निर्वृतिपुरे राज्यम् . // 243 // कृत्वेदं यन्मयोपार्जि, पुण्यं पुण्यानुबन्धदम् / तेन विश्वत्रयं भूयाद्, रत्नत्रयविभूषितम् // 244 // यावन्नन्दीश्वरद्वीपे, निष्प्रतीपजिनवजः / तावत् प्रकरणं नन्द्यादानन्द्यात् सङ्घमानसम् // 245 // 109