________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // तिर्यग्योनिभवाः शेषा जल-स्थल-खचारिणः / नारका मानवा देवाः, सर्वे पञ्चेन्द्रिया मताः . तत्पर्यायक्षयाद् दुःखोत्पादात् सङ्क्लेशतस्त्रिधा / वधस्य वर्जनं तेष्वभयदानं तदुच्यते / ददात्यभयदानं यो, दत्तेऽर्थान् सोऽखिलानपि / जीविते सति जायेत, यत् पुमर्थचतुष्टयी जीवितादपरं प्रेयो, जन्तोर्जायेत जातुचित् / न राज्यं न च साम्राज्यं, देवराज्यं न चोच्चकैः इतोऽशुचिस्थस्य कृमेरितः स्वर्गसदो हरेः। . प्राणापहारप्रभवं, द्वयोरपि समं भयम् समग्रजगदिष्टायाऽभयदानाय सर्वथा / सर्वदाऽप्यप्रमत्तः सन्, प्रवर्तेत ततः सुधीः / भवेदभयदानेन, जनो जन्मान्तरेषु हि। . कान्तो दीर्घायुरारोग्य-रूप-लावण्यशक्तिमान् धर्मोपग्रहदानं तु, जायते तत्र पञ्चधा / / दायक-ग्राहक-देय-काल-भावविशुद्धितः तत्र दायकशुद्धं तन्याय्यार्थो ज्ञानवान् सुधीः / निराशंसोऽननुतापी, दायक: प्रददाति यत् इदं चित्तमिदं वित्तमिदं पात्रं निरन्तरम् / .. सञ्जातं यस्य मे सोऽहं, कृतार्थोऽस्मीति दायकः साबद्ययोगविरतो, गौरवत्रयवर्जितः / त्रिगुप्तः पञ्चसमितो, रागद्वेषविनाकृतः निर्ममो नगरवसत्यङ्गोपकरणादिषु / . तथाऽष्टादशशीलाङ्गसहस्रधरणोद्धरः / 185 // 30 // // 31 // // 32 // // 33 // // 34 // // 35 //