________________ // 93 // - // 94 // // 95 // // 96 // // 97 // // 98 // साधर्मिकाणां वात्सल्यं, यथा भरतचक्रिणा / चक्रे प्रतिदिनं तच्च, कृत्वा विभवसम्भवे / भोजनं कारयित्वा स्वजनित्रीजनकादिकान् / चिन्तयित्वा प्रेष्यवर्ग, प्रतिजागर्य रोगिणः गवादीन् प्रीणयित्वा च, निश्चलासनसंस्थितः / / ध्यात्वा पञ्चनमस्कारं, प्रत्याख्यानं विमृश्य च . शुभेषु धातुषु क्रोधाद्यभावे मानसे शुभे / भोजनं रचयेच्छ्राद्धः, सद्धर्मस्फातिहेववे ततोऽग्रे स्वकुटुम्बस्य, वाचयेद्वरपुस्तकम्। द्रव्यार्थं सत्यवचसा, व्यवहारं च चिन्तयेत् परित्यजन् पञ्चदश, कर्मादानानि सर्वथा / कूटतुलां कूटमानं, कूटविक्रयमेव च। अह्रो मुखे द्वे घटिके, नित्यं भुक्तिं विवर्जयेत् / सायमहोऽष्टमे भागे, भुक्त्वा मुक्तसचित्तकः देवा! रचयेत् सन्ध्याकाले सङ्गीतकोद्भटाम् / स्तुतिस्तोत्रपवित्रं च, देववन्दनमादरात् आवश्यकं षड्विधं चादध्यादध्यामधर्मदम् / तद् द्विधा द्रव्यभावाभ्यां, द्रव्यतोऽशुद्धमानसः उपयोगविनिर्मुक्तः, सम्यग्दृष्टिरपि श्रयेत् / यथाछन्दादिसाधुर्वा, साधयेत् सादरोऽपि यत् भावतस्तूपयुक्तो यः, साधुः श्राद्धः करोत्यलम् / अर्थाधिकारी एतस्य, षड् भवन्ति श्रुतोदिताः सावद्ययोगव्यावृत्तिर्नामोत्कीर्तनमर्हताम् / .. प्रतिपत्तिर्गुणाढ्येषु, स्खलितस्य च निन्दनम् 170 // 99 // // 100 // // 101 // // 102 // // 103 // // 104 //