________________ // 81 // // 82 // // 83 // // 84 // // 85 // // 86 // ? व्याख्याऽनेहसि सूरीणां, द्वादशावर्त्तवन्दनम् / वात्रिंशद्दोषनिर्मुक्त, दत्त्वा संवरणं भजेत् प्राञ्जलिविकथानिद्रावर्जितः श्रुतमर्हताम् / आकर्णयेद्वर्णयेच्च, गुरूणां गुणगौरवम् गतेषु वसतौ तेषु, क्षमाश्रमणपूर्वकम् / भक्तपानकभैषज्यहेतोः साधूनिमन्त्रयेत् मध्याह्निकी गेहजैनबिम्बाऽर्चा रचयेत्ततः / आगतानां च साधूनां, दद्यादानमनिन्दितम् वस्त्रकम्बलपात्रोर्णालोविकादण्डकादिकम् / ऋतुबद्धकाले देयं, गुरुभ्यो दूषणोज्झितम् आभिमुख्येन गमनं, प्रदानं विष्टरस्य च / प्रणिपातोऽशनादीनां, दानं चरणवन्दनम् यतीनां पृष्ठतो यानं, सत्कारः षड्विधोऽप्ययम् / शकचक्रधरादिश्रीबीजं श्रावकसन्तते: सुसाधुधर्मोपष्टम्भदानतः श्रीनिदानतः। . समप्राप धनसार्थेशः, श्रीतीर्थेशरमां कमात् मासक्षपणपर्यन्ते, मुनेर्दानप्रभावतः / प्राज्यं राज्यं मूलदेवः, प्रापेहापि सहास्तिकम् वन्द्या नन्द्यासुरानन्द्या, दातारः प्रथमेऽर्हताम् / ' श्रेयांसाद्या गृहे येषां, सार्द्धा द्वादश कोटयः हैम्य:पेतुः सुरैर्मुक्ता, वादिता दुन्दुभिव्रजाः / रेजे गन्धोदकीवृष्टिः प्रोच्चैर्जयजयध्वनिः अहो दानमहोद्घोषश्चेलोत्क्षेपश्च येऽसिधन् / भवे तत्रैव केच्चिच्च तृतीये गमिनः शिवम् 19 // 87 // / / 88 // // 89 // // 90 // // 91 // // 92 //