________________ // 105 / / // 106 // // 107 // // 108 // // 109 // // 110 // प्रायश्चित्तविधानं च , शुद्धिमद्गुणधारणा / षड्विधाऽऽवश्यकस्योक्तः, पिण्डितोऽर्थः स एषकः अधुनाऽध्ययनषट्कं, नामतः परिकीर्त्यते / सामायिकं चतुर्विंशत्यर्हत्स्तवनवन्दने प्रतिक्रमणं च तथा, कायोत्सर्गः समाधियुक् / प्रत्याख्यानं च तत्राद्यं, सर्वतस्तु यतेर्भवेत् सामायिकं देशतस्तु, श्राद्धानां पापवर्जिनाम् / सम्यक्त्वगुणयुक्तानां, समचित्तत्वशालिनाम् चैत्यालये स्वे निशान्ते, साधूनामन्तिकेऽपि वा। कार्यं पौषधशालायां, श्राद्धैस्तद्विधिना सदा चतुर्विधेन शुद्धेन, पौषधेन समन्वितम् / तत्पर्वदिवसे कृत्यमतिचारविवजितम् . त्रयोदशमहामेरुमानस्वर्णप्रदानतः / सामायिके पौषधे चाधिकं फलमुदीरितम् यत्र यत्र क्षणे नास्ति, व्यवहारादि सर्वथा / सामायिकं तत्र तत्राधेयं श्रेयःफलप्रदम् सामायिके कृते श्राद्धो, भवे साधुवदुत्तमः / / बन्दनीयः सुरैर्दैत्यैर्देवेन्द्रैरपि भावतः चन्द्रावतंसको राजा, स्थिरः सामायिकं व्रतम् / / प्रपाल्य निर्मलध्यानः, सुरो वैमानिकोऽभवत् पौषधस्थं कृतरात्रिकायोत्सर्ग नरेश्वरम् / ईशानेन्द्रोऽस्तवीत् स्वर्गे, श्रीमन्मेघरथं मुदा द्वादशे देवलोकेऽगुरनन्ताः श्रावकोत्तमाः / सामायिकं पौषधं च , प्रतिपाल्य यथाविधि // 111 // // 112 // // 113 // // 114 // // 115 // // 116 // 101