________________ वसतिं प्रमृज्य तदनु प्रतिलिख्य स्थापनागुरुः स्थाप्यः / . एकं लघुवन्दनकं दत्त्वा प्रेक्षेत मुखवसनम् .. // 329 / तदनु लघुवन्दनेन स्वाध्यायं मुनिजनः प्रकुर्वीत / ... ... ... यः सूत्रार्थग्राही स्वाध्यायस्तस्य तु स एव // 330 // तत उपधिस्थण्डिलयोः प्रेक्षार्थं स्यात् क्षमाश्रमणयुगलम् / : तत्रैकं सन्दंशेऽन्यत्तु प्रतिलेखनायां स्यात् // 331 // प्रातःसमये प्रेक्ष्यो दशधोपधिरेव नैव पात्राणि / यस्मात्प्रेक्षाऽवसर-स्तेषामुद्घाट-पौरुष्याम् // 332 // पश्चिमयामे तूपधि-पात्राचं प्रतिलिखेत्समस्तमपि / ... अथ पात्रकनियोगं सप्तविधं प्रेक्ष्य निक्षिपति // 333 / / प्रेक्षां कुर्वन् प्रत्या-ख्यानं दत्ते यदि प्रमत्तो वा / वाचयति पठति च तथा षट्कायविराधको भवति // 334 1 अधिकमौपग्रहिकं विधिना प्रतिलिख्य सर्वमुपकरणम् / अथ पुनरपि सूत्रार्थ-ग्रहणं विदधाति मुनिवर्गः // 335 // पश्विमघटिकाद्वितये कालं प्राभातिकं प्रतिक्रम्य / अथ सप्तविंशतिविधान् प्रेक्षेत स्थण्डिलोद्देशान् // 336 / अधिसहमानस्यासन्नमध्यदूरे त्रयः स्युरन्तस्ते / एवमनधिसहमान-स्याप्येवं षड् बहिः षट् च // 337 // इत्युच्चारे द्वादश भवन्ति ते द्वादशैव नु जलेऽपि / स्यादेवं चतुर्विंशतिस्त्रयं कालमाश्रित्य // 338 // स्थण्डिलदेशप्रेक्षां कृत्वाऽशनपानके परिष्ठाप्य / विस्मृतमम्बरवसति-प्रमुखं प्रतिलेखयेत् किञ्चित् // 339 // एक लघुवन्दनकं गोचरचर्याप्रतिक्रमणविषयम् / दत्त्वा ततो द्वितीयेन तेन कुर्यादिहोत्सर्गम् - . // 340 // 154