________________ उत्तरगुणा द्विभेदास्तत्रैके सप्तमूलपूर्वपदाः / . . अपरे विशोधिकोटौ स्युरुत्तरोत्तरगुणा अष्टौ ... // 233 // वेल्लयोस्तिर्यगुपरिगतवंशा आच्छादनं च पार्थानाम् / . .. बन्धश्च कम्बिकानां दर्भाद्याच्छादनं चोर्ध्वम् // 234 // कुड्यानां लेपो द्वारविधानं भूमिकासमीकरणम् / . . सप्तभिरात्मार्थकृतैः शुद्धा मूलोत्तरगुणैः स्यात् // 235 // उयोतिता धवलिता संमृष्टा वा सिता कृतबलिश्च / सिक्ता लिप्ता धूपायितेति सा शुद्धकोटौ स्यात् // 236 // एवञ्च दोषरहितां स्त्रीपशुपण्डकविवर्जितां वसतिम् / सेवेत सर्वकालं विपर्यये दोषसम्भूतिः // 237 // संस्थाप्य ग्रामादिषु वृषभं दीर्घाकृताग्रिमैकपदम् / अधिनिवासकटिनिविष्टं पूर्वमुखं वसतिरादेया // 238 // शृङ्गस्थाने कलंहः स्थानं चरणेषु न भवति यतीनाम् / उदररुजाधिष्ठाने पुच्छे तु स्फेटनं विद्धि // 239 // मौलौ ककुदे पूजा-सत्कारावानने प्रभूतान्नम् / उदरे घ्राणिः स्कन्धे पृष्ठे च भरक्षमो भवति // 240 // यन्न मुनिकृते क्रीतं नवापि तद् यत्परस्य न गृहीतम् / प्रामित्यमभिरुतञ्च त्यक्तुं वस्त्रं मुनेरहम् // 241 // वस्त्रे च खञ्जनाञ्जनकर्दमलिते विकुट्टिते जीर्णे / मूषकजग्धे दग्धे जानीहि शुभाशुभं भागैः // 242 // कृतनवभागे वस्त्रे चत्वारः कोणकास्तदन्तौ द्वौ / तत्कर्णपट्टिके द्वे मध्ये वसनं भवेदेकः // 243 // चत्वारः सुरभागास्तेषु भवेदुत्तमो मुनेर्लाभः / द्वौ भागौ मानुष्यौ भवति तयोर्मध्यमा लब्धिः // 244 // 146