________________ करमर्दनादिना चेतनेन यत्पूरणादिकमचित्तम् / मिलितं ददाति भक्त्याऽनुपयोगेन च तदुन्मिश्रम् // 221 // अपरिणतं तु द्रव्यं भावो वा तत्र तद्विधा द्रव्यम् / दातृग्राहकसत्ता-स्थितं यत्प्रासुकीभूतम् // 222 // भावोऽप्येवं द्वेधा देये साधारणे यदेकस्य / दित्सा नैवाऽन्येषां दायकभावाऽपरिणतं तत् // 223 // शुद्धमिदमिति यदेकस्य न द्वितीयस्य परिणतं भवति / भिक्षामटतोः साध्वोर्ग्राहकभावापरिणतं तत् // 224 // दध्यादिलेपयुक्तं लिप्तं न ग्राह्यमोघतोऽत्र पुनः / / अष्टौ भङ्गाः संसृष्ट-मात्रकरसावशेषभक्ताद्याः // 225 // अत्र च शुद्धा विषमा भङ्गाश्चत्वार एव यत्तत्र / / पश्चात्कर्म न सम्भवति सावशेषाशनग्रहणात् // 226 // छर्दितमुक्तं त्यक्तं तत्र च मधुबिन्दुपतनदृष्टान्तात् / परिशाटिसम्भवे सं-पतन्ति काकादयो जीवाः // 227 // इत्युभयकृता एते दशापि दोषाः समासतो भणिताः / / एवं स्थिते द्विचत्वारिंशद्दोषा मताः सर्वे // 228 // आधाकर्मविभागौदैशिकान्तिमात्रयो भेदाः / अथ पूतिकर्ममिश्रं प्राभृतिका बादराया च // 229 // अध्यवपूरक एतेऽष्टावप्यविशोधिकोटिरस्यार्थः / एतत्कोटिरवयवसंमिश्रं शुद्धमपि पूति / // 230 // न क्रीणाति न पचति च न हन्ति न च कारणादनुमतेश्च / पिण्डैषणा च सर्वा नवकोटिष्वासु समवैति // 231 // कोणगवेल्लिचतुष्कं द्वे गुरुवेल्ल्यौ च पृष्ठवंशश्च / सप्तभिरेभिः स्वार्थकृतेर्वसतिर्मूलगुणशुद्धा // 232 // 145