________________ एकैकोऽपि द्विविधः पूर्वं पश्चाच्च तत्र पूर्वः सन् / यत्पूर्वमेव देयेऽलब्धे गुणकीर्तनं क्रियते .. // 197 // एतद्विपरीतोऽन्योऽथ .पूर्वसम्बन्धिसंस्तवस्त्वेवम् / यन्मात्रादेः कल्पन-मितरः स्वस्रादिकल्पनया // 198 // विद्याजपांदिसाध्या प्रज्ञप्तिमुखदेव्यधिष्ठात्री / अक्षररूपा तस्याः प्रयोगतो भवति तत्पिण्ड: // 199 // एवम्भूतो मन्त्रोऽप्यधिष्ठितः पुरुषरूपदेवतया / सिद्धश्च पठनमात्रात्तदर्जितो मन्त्रपिण्ड: स्यात् // 200 // नयनाञ्जनादिरन्तर्धानादिफलो निगद्यते चूर्णः / सौभाग्यादिविधायी योगः पादप्रलेपादिः // 201 // एतद्द्वयपारणतः सम्प्राप्तौ चूर्णयोगपिण्डौ स्तः / बहिरुपयोगी चूर्णो योगो बहिरन्तरुपयोगी // 202 // मूलमिव संसृतितरौ कर्म तु सावद्ययोगकरणं च / गर्भाधानस्तम्भन-पाताद्यं मूलकर्म स्यात् // 203 // तत्करणेन प्राप्तः पिण्डोऽप्येवमिति, दोषषोडशकम् / इत्थं गवेषणायां द्वात्रिंशन्मीलिताः सर्वे // 204 // अथ शङ्किताख्यदोषो भ्रक्षितनिक्षिप्तपिहितदोषाश्च / . संहृतदायकंदोषावुन्मिश्रोऽपरिणतो लिप्तः // 205 // छर्दित इति दश दोषास्तत्राहारादि दीयमानं यत् / दृष्ट्वा प्रचुरं शङ्कितमाधाकर्मादि दुष्टतया // 206 / / ग्रहणेऽपि शङ्कितो भोजनेऽपि चेत्यादिभङ्गकचतुष्कम् / यच्छङ्कते तमाप्नोति त्रिषु चरमस्तु शुद्धः // 207 // द्वेधा प्रक्षितमुक्तं सचित्ततोऽचित्ततश्च तत्राद्यम् / मात्रककरादिभूजल-वनस्पतिम्रक्षितं त्रिविधम् // 208 // 143