________________ दूतीत्वेकप्रकट प्रच्छन्नाऽन्या द्विधा द्वितीया स्यात् / / लोकोत्तरविषयाद्या द्वितीया साधोरपिच्छनाः // 185 // या तु द्वितीयसांघाटिकसाधोरपि जनस्य च छना / .... सा द्वैतीयिकी भवति लोकलोकोत्तरच्छना // 186 // सुखदुःखादिकविषयेऽतीतादि निमित्तकथनतः साधुः / / आवजिताज्जनाद् यल्लभत्ते स निमित्तपिण्ड: स्यात् // 187 // तत्तद्गुणमात्मानं वदतो जातिकुलकर्मशिल्पतया / याजीविकामुनेरत्र पञ्चधा जीवपिण्डोऽनौ // 188 // . श्रमणादिभक्तगृहिणां पुरतस्तद्वर्णनादिना मुनिना / . यो याच्यते स पिण्डोऽप्युक्तो वनीपकत्वेन // 189 // भैषज्यवैद्यसूचासूक्ष्मैकान्या स्वयं भिषग्वचनम् / ... एतद्विविधचिकित्सा-लब्धः पिण्डोऽपि तद्पः (?) // 190 // शापादिक्रोधफलं ज्ञात्वा यो दीयते भयाद् गृहिणा / मुनये तद्धेतुतया क्रोधाभिमुख्यः स पिण्डोऽपि // 191 // एवं समानपिण्डो यस्मिन् गृहिणं तथा च दादा]पयति / मुनिरभिमानेन यथा दत्तेऽनिच्छत्यपि सुतादौ // 192 // यत्परवञ्चनहेतोः कृत्वा रूपान्तरादिकं साधुः / अर्जयति मोदकाद्यं मायाहेतुः स पिण्डःस्यात् // 193 // स तु भवति लोभपिण्डो गृङ्ख्या यल्लभ्यते रसोपेतम् / / यद्वा खण्डादिपयःप्रभृतिकसंयोजनाहेतोः // 194 // एषु च घृतपूरक्षपकसेवनिकाक्षुल्लको कषायेषु / ज्ञातावार्याषाढश्च सिंहकेसरमुनिः क्रमतः // 195 // द्वेधा संस्तव उक्तो वचनात् सम्बन्धतश्च तत्राद्यः / गुणवर्णनरूपोऽन्यो जननीस्वस्रादिकल्पनया . // 196 // 142