________________ तत्रोद्ध्वं शिक्यकगृहमालाद्यधस्तु भूमिगृहमुख्यम् / उभयं मञ्जूषा को-ष्ठकादि तिर्यग्गवाक्षादि // 173 // आच्छेद्यं भृत्यकुटुम्ब-सहचरेभ्यस्त्रिधा यदाच्छिद्य / दत्ते स्वामी राजा प्रभुहेशश्च दस्युश्च // 174 // दिशति बहु स्वाधीनं यदेक एवाऽनिसृष्टमाहुस्तत् / तत्साधारण-चोल्लगजग्धाभित्रिधा तत्र // 175 // आनीय हट्टगेहादिस्थं साधारणं ददात्येकः / तिलकुदितैलवसना-शनादिकं तद्भवेदेकम् // 176 // गोष्ठिकभक्तं चोल्लक-मेकस्य प्रविशतो द्वितीयं तत् / जग्धस्तु गजस्तद्भक्तमिभनृपादत्तमपरं (?) स्यात् // 177 // स्वार्थारब्धे पाकेऽधिकतरतिलतन्दुलादि यत्क्षिपति / / आश्रित्य यावदर्थक-यतिपाखण्डिकसमागमनम् // 178 // सोऽध्यवपूरकदोषोऽमी दोषाः षोडशोद्गमाभिमुख्याः / / पिण्डोत्पत्तिमिहोद्गममाहुस्तद्गोचरा एते . // 179 // भेदैर्धात्रीत्वादिभिरुपार्जनं मूलशुद्धपिण्डस्य / उत्पादनोच्यते तद्विषया दोषा यतिकृताः स्युः // 180 // धात्री दूती च निमित्ता जीवावनीपकाश्चिकित्सा च / क्रोधोऽथ मानविषयो मायापिण्डश्च नवमः स्यात् // 181 // लोभश्च पूर्वपश्चात् संस्तवविद्ये च मन्त्रचूर्णौ च / योगोऽथ मूलकर्म च षोडश दोषा इमें तत्र // 182 // धात्रीपिण्डोऽसौ यल्लभते साधुर्विधाप्य कृत्वा च / बालस्य पयोमज्जन-मण्डनरमणाङ्कधात्रीत्वम् // 183 // यस्तु मिथः सन्देशं कथयित्वा प्राप्यते निजग्रामे / . मुनिनाऽन्यग्रामे वा दूतीपिण्डः स विज्ञेयः // 184 // - 141