________________ क्रीतं चतुर्विधं तत्रात्मधनक्रीतमिह परस्माद् यत् / आवर्ण्य तीर्थशेषाद्यर्पणतो गृह्यते वस्तु . // 161 // अपरं तदात्मभावक्रीतं परिगृह्यते यदाक्षिप्य / स्वयमेव धर्मकथनादि रूपभावेन भक्तादि // 162 // यद् गृहिणा साध्वर्थं सचेतनाचित्तमिश्रभावेन / क्रीतं भक्तादि पर-द्रव्यकीतं तृतीयं तत् / // 163 // तत्परभावक्रीतं यन्मङ्घादिः परो मुनिनिमित्तम् / आवर्ण्य जनं गृह्णाति निजकलारूपभावेन // 164 // आदाय यत्परस्मादुद्यतकं दीयते यतिजनाय / अपमित्यं वा तत्प्रामित्यं वा दोषस्त्वयं ज्ञेयः // 165 // स्थानद्विगुणिकया किल कस्याश्चित्तैलकर्षमुद्यतकम् / आनीय काऽपि मुनये दत्त्वा निःस्वा यदा सत्त्वम् // 166 // परवर्तितं यदाज्या-दिद्रव्यं साधवे परावर्त्य / तद्रव्यान्यद्रव्यैर्दत्ते दोषोऽत्र कलहादिः // 167 // स्वपरग्रामानीतं यतयेऽभिहूतं द्विधेह तत्रैकम् / .. अज्ञातमभिहूततया प्रच्छन्नं प्रकटमितरत्तु (?) // 168 // आचीर्णं त्वानीतं हस्तशतान्तर्गृहत्रितयमध्ये / तत्रैकस्मिन् भिक्षाग्राघुपयुक्तो द्वयोरपरः // 169 // उद्भिन्नं द्वेधा स्यात्तत्र जतुच्छगणकादिपिहितं सत् / उद्घाट्यते मुनिकृते तत्पिहितोद्भिन्नमति दुष्टम् // 170 // तत् तु कपाटोद्भिन्नं यद्दत्तकपाटकेऽपवरकादौ / मुनिदानाय कपाटावुद्घाट्य गुडादिकं दत्ते // 171 // ऊर्ध्वाध उभयतिर्यग्देशे विषमे स्थितं तु भक्तादि। . करदुर्ग्राह्यं दत्ते मालापहृतं चतुर्भेदम् // 172 // 140