________________ आवश्यकी भणित्वा भवोपयुक्त इति गुरुवचः श्रुत्वा / इच्छामीत्युक्त्वांथ स्मर्तव्यो गौतममुनीन्द्रः // 101 // वामा च दक्षिणा वा नाडी यत्रानिलो वहति पूर्णः / पवनग्रहणं कुर्वन् पुरतो विदधीत तत्पादम् // 102 // वसतेर्निर्यन् भूमेरुत्क्षिप्य व्योम्नि दण्डकं कुर्यात् / लब्धे प्रथमे मुञ्चेदवनि ततो नार्वाक् इत्येवं समितात्माऽऽत्मना द्वितीयोऽशनादिकं निमित्तम् / गोचरचर्यां प्रविशेहजुगत्याद्यष्टवीथीभिः // 104 // ऋज्वी गत्वाप्रत्या-गतिका गोमूत्रिका पतङ्गाख्या / पेट तथाऽर्द्धपेट शम्बूकाऽन्तर्बहिर्द्विविधा // 105 // तत्राद्यायां वसतेर्ऋजुगत्या याति भिक्षमाणः सन् / समपङ्क्तिचरमगेहाद्वलति तु भिक्षामगृह्मनः // 106 // यस्यां तु भिक्षयित्वा गृहपङ्क्तौ तन्निवर्तमानः सन् / अटति द्वितीयपङ्क्तौ गत्वा प्रत्यागतिः सा स्यात् // 107 // वामाद् दक्षिणगेहे दक्षिणगेहाच्च भिक्षते वामम् / / गोमूत्रिका मता सा पतङ्गवीथी त्वनियता स्यात् // 108 // मध्यं विना चतुर्दि-क्षु भिक्षते यत्र सा भवेत् पेट / दिग्द्वयसम्बद्धश्रे-णिः भिक्षणे त्वर्द्धपेटा स्यात् // 109 // अभ्यन्तरशम्बूका यस्यां क्षेत्रस्य मध्यतो भिक्षाम् / भ्राम्यन् बहिर्विनिस्सर-ति शङ्खवृत्तत्वगमनेन // 110 // सा तु बहिःशम्बूका यस्यां भिक्षां भ्रमन् बहिर्देशात् / क्षेत्रस्यान्तः प्रविश-त्येवं वीथ्यो मता अष्टौ // 111 // पिण्डः शय्या वस्त्रं पात्रं तुम्बादिकं चतुर्थश्च / नैवाऽकल्प्यं गृह्णी-त कल्पनीयं सदा ग्राह्यम् // 112 // 135