________________ पिण्डैषणाञ्च पानक-शय्यापात्रैषणां न योऽधिजगे। तेनाऽऽनीतं मुनिना न कल्पते भक्तपानादि . // 113 // देशोनंपूर्वकोटि विहरन् निश्चितमुपोषितः साधुः / . . निर्दोषपिण्डभोजी ततो गवेष्यो विशुद्धोञ्छः // 114 // नूनमचारित्री मुनि-रशोधयन् पिण्डवसति-वस्त्रादि / चारित्रे पुनरसति प्रव्रज्या निष्फला भवति // 115 // पिण्ड: शरीरमुक्तं तस्योपष्टम्भहेतुरिति पिण्डः / द्रव्यमपि समयरूढे-रेकोऽनेकश्च स द्वेधा // 116 // अशनाद्याश्चत्वारो वस्त्रं पात्रञ्च कम्बलं शूची। .... क्षुरपादप्रोञ्छनके नखरदनी कर्णशोधनकम् // 117 // शय्यातरपिण्डोऽयं लिङ्गस्थस्योज्झतस्तदवतो वा। चारित्रिणोऽप्यचारि-त्रिणोऽपि वर्णो' रसायनवत् (?) // 118 // प्राभातिकमावश्यकमन्यत्र विधीयते यदि सुविहितैः / यदि जाग्रियते. च तदा ग्राह्योऽयं द्वादशविधोऽपि // 119 // श्रीवृषभवीरवर्ज जिनैर्विदेहोद्भवैश्च लेशेन / अपि कर्म वल्लितं ननु पिण्ड: सागारिकस्यायम् // 120 // अशिवे रोगे च भये नियन्त्रणे दुर्लभे तथा द्रव्ये / प्रद्वेषे दुर्भिक्षेऽनुज्ञातं ग्रहणमप्यस्य अस्यापि ग्राह्यमिदं डगलकमलकतृणानि रक्षादि / सोपधिः शैक्षः शय्या-संस्तरको पीठलेपादि // 122 // पादप्रोञ्छनमशनादि चतुष्कं वस्त्रकम्बलौ पात्रम् / .. इति नृपपिण्डोऽष्टविधो वर्ण्यः प्रथमान्त्यजिनसमये // 123 // तस्य हि पिण्डो वर्णो यो राज्यं पञ्चभिः सह करोति / नृपतिकुमाराऽमात्याः सेनाधिपतिः पुराध्यक्षः / // 124 // 136