________________ तदनन्तरं प्रमृज्य स्थानं न्यस्येनिषद्ययोर्द्वितयम् / एका योग्या सूरेरपराऽक्षाणां निवेशाय // 89 / सविधे विधाय मात्रक-युगं गुरो:खेलकायिकायोग्यम् / वन्दनकञ्च विधायोत्सर्गः कार्योऽनुयोगार्थम् // 90 // अनुयोगे प्रारब्धे प्रत्याख्यानं न दीयते यत्र / . तत्राऽन्यस्य मुनीनां वार्ताप्रमुखस्य का वार्ता . // 91 // आचार्याः सूत्रार्थं प्रपञ्चयन्ति द्वितीयपौरुष्याम् / विधिनाऽऽर्यरक्षिता इव दुर्बलिकापुष्पमित्राय . // 92 // अनुयोगश्च चतुर्धा तत्राद्यश्चरणकरणविषय: स्यात् / / .. धर्मकथाया अपरो द्वौ गणितद्रव्यविषयौ स्तः // 93 // स्युस्ते च कालिकश्रुत-मृषिभाषितसूत्रमृषिभिरुपदिष्टम् / / सूर्यप्रज्ञप्तिश्रुतमनुक्रमं दृष्टिवादश्च // 94 // वाचयति यत्र सूत्रं पाठयिता यत्र चार्थमाचार्यः / कथयति तत्र विदधते कायोत्सर्ग महाधीराः ... // 95 // वन्दनकदानपूर्वकमनुयोगविसर्जनार्थमुत्सर्गम् / उच्छ्वासाष्टकमानं कुर्यादन्तेऽर्थपौरुष्याः // 96 // गत्वाऽथ जिनायतने देवान् वन्देत जिनपतेः पुरतः / भूतेशाष्टम्योस्तु स्तुत्याः सर्वे जिना मुनिभिः - // 97 // गोचरचर्याकालो यो यस्मिन् भवति तत्र साध्यः सः / कुर्यात्सूत्रार्थगते पौरुष्यौ तदनुसारेण // 98 // यामद्वयपर्यन्ते देवाद्यनुरोधतोऽन्यदा वाऽपि / मुखवस्त्रिका प्रतिलिखेद् दद्याल्लघुवन्दनं चैकम् // 99 // गुरुमापृच्छ्य विहर्तुं यामीति प्रेक्ष्य पात्रमादेयम् / उपयोगस्तु प्रातर्विहितो बालाद्यनुग्रहतः // 100 // 134