________________ पात्रे तानि द्वादश बहिरन्तश्चैककः करस्पर्शः / / पात्रकनिर्योगोऽयं यति-साध्व्योरेक एव स्यात् // 65 // पात्रं पात्रकबन्धः पात्रस्थापनकपात्रकेसरिके। ... पटलानि रजस्त्राणं च गोपुच्छक: पात्रनिर्योगः // 66 // चत्वारिंशत्तलपरि-धिनाङ्गुलानि प्रमाणहिम-मध्यम् / . पात्रेऽस्मादकपि ही-नं जघन्यमुत्कृष्टमधिकं तु // 67 // यस्माद्भवन्ति जीवाः केषुचिदन्येषु पानकेषु ततः / तेषां रक्षाहेतोः पात्रग्रहणं जिनैरिष्टम् / // 68 // पात्रकबन्धे मानं पात्रकमानेन भवति कर्तव्यम् / . . ग्रन्थौ यथा कृते सति भवन्ति चतुरङ्गुलाः कोणाः // 69 // पात्रप्रतिलेखिन्या विज्ञेया षोडशाङ्गुलानि मितिः / इदमेव मानमुक्तं पात्रस्थानकगोपुच्छकयोः // 70 // षट्त्रिंशद्विस्तारे पटलानामगुलानि दैर्घ्य तु / षष्टिरथवा प्रमाणं स्वशरीरात् पात्रतो वापि // 71 // तानि कदलीदलाभान्युत्तममध्यमजघन्यतस्त्रीणि / प्राणिगणकरक्षार्थं निदाघहेमन्तवर्षासु। // 72 // ग्रीष्मे स्युस्त्रिचतुःपञ्चसंख्यया तानि शीतकाले तु / चत्वारि पञ्च षट् चाथ पञ्च षट् सप्त वर्षासु // 73 // कामति मध्ये चतुरङ्गुलं यथा पात्रकं प्रदक्षिणयत् / तावत्प्रमाणमुक्तं जिनै रजस्त्राणमनुपात्रम् // 74 // कोशयुगागतसाधोः सूपादिभृतेन यावता तृप्तिः / . तावन्मानं मात्रकमस्य च वर्षासु परिभोगः // 75 // पात्रकनिर्योगोऽयं मात्रक-कल्पत्रये रजोहरणम् / . मुखवसनपट्टकाविति चतुर्दशोपकरणानि मुनेः . // 76 // 132