________________ नेत्रहीनं यथा वक्त्रं, दानहीनं यथा धनम् / चन्द्रहीनं यथाकाशं, पद्महीनं यथा सरः // 291 // निर्नायकं यथा सैन्यं, तपोहीनश्च संयमः / नि:संस्कारं यथा वाक्यं, निरपत्यं यथा गृहम् // 292 // तथैव दुर्विनीतस्य, चेष्टितं जल्पितं स्थितम् / पाण्डित्यं च क्रियाकाण्डं, सर्वथैव न शोभते // 293 // गुर्वादिषु शुभं चित्तं, विनयो मानसो मतः / हितं मितं प्रियं वाक्यं, विनयस्तेषु वाचिकः // 294 // कायिकश्च यथाशक्ति, तत्कार्याणां प्रसाधकः / सर्वथाऽऽशातनात्यागः, सर्वदा नीचवर्तिता // 295 // ज्ञानदर्शनचारित्र - रत्नत्रितयभाजनम् / विनयादेव जायन्ते, गुरूणां योग्यजन्तवः // 296 // लिम्बतां दुर्विनीतत्वात्, पश्चाच्चागमदाम्रताम् / / यथैष क्षुल्लको गच्छे, पित्रा सार्धं कृतव्रतः . // 297 // वरविनयगुणौघप्राप्तलोकप्रशंसः, सफलितनिजजन्मा भूरिधामा महात्मा। कतिपयदिनमध्ये क्षीणनिःशेषकर्मा, सकलजनविनीतः शाश्वतं स्थानमेति हृत्पूरकाशिनो यद्व - तृणेष्वपि सुवर्णधीः / दुःखात्मकेषु कामेषु, कामिनां सुखवासना // 299 // स्वप्ने दृष्टं यथा पुंसः, क्षणमात्रं सुखायते। प्रबुद्धस्य न तत्किञ्चि - देवं विषयजं सुखम् // 30 // त्यजन्ति कामिनं कामा - स्त्यज्यन्ते ते न कामिभिः / कामानां न प्रियः कोऽपि, कामाः सर्वजनप्रियाः // 301 // शब्दादिविषयासक्ता, धर्ममार्गपराङ्मुखाः / अजरामरवन्मूढा - श्चेष्टन्ते नष्टचेतनाः // 302 // 13 -