________________ // 280 // // 281 // // 282 // // 283 // // 284 // शरद्धदजलाकारं, गम्भीरं मलवर्जितम्। कोपेऽपि शिशिरं मध्ये, बहिरुष्णं सतां मनः .. असारोऽप्येष संसारः, सारवानिव लक्ष्यते / परदुःखदुःखितैः सद्भिः, परोपकृतिचञ्चभिः सागरादपि गम्भीरा, मेरोरपि गरीयसी / भूयसी भूरिशः कार्या, सङ्गतिः सह सज्जनैः क्रूरकर्मापि सत्सङ्गाः - लभते फलमुत्तमम् / केशिसङ्गाद्यथा लब्धं, फलम् राज्ञा प्रदेशिना यैः स्वार्थं परिहत्य हृद्यहृदयैः प्रायः परार्थः कृतः, यैरेकान्तहितावहा तनुमतां दत्ता मतिः पृच्छताम् / यैराजन्म जितेन्द्रियैर्जगदिदं शुभैर्गुणैः शुभ्रितं / ते संसारसरः सरोरुहसमाः सेव्याः सदा सज्जनाः यत्र तत्र प्रयातोपि, दुर्विनीतो न शोभते / न चापि सेव्यतामेति, निर्जलेव यथा नदी किं किं यन्न प्रयच्छन्ति, किं किं यन्न प्रकुर्वते / स्वबन्धुमिव पश्यन्ति, विनयाराधिता नराः अङ्गजोऽपि हि दुष्टात्मा, व्रणः सन्तापकारणम् / / पुत्रोऽपि दुर्विनीतात्मा, पितुर्निर्वेदकारणम् कोदण्डस्यैव नम्रस्य, कोटिमारोहते गुणः / ततोऽपि च टणत्कारो, बम्भ्रमीति महीतले दुर्विनीतं परित्यज्य, स्वपुत्रं मेदिनीपतिः / अन्यस्यापि ददात्येव, राज्यं विनयरञ्जितः हन्ता जन्मद्वयस्यापि, दुर्विनीतो दुराशयः / . हितेष्वप्यहितः पापः, कूलवालो यथा मुनिः . // 285 // // 286 // // 287 // // 288 // // 289 // // 290 // 118