________________ सुबह्वपि तपस्तप्तं, चारित्रं च चिरं कृतम् / यदि भावो नः सञ्जात - स्तदा तत्तुषकण्डनम्. // 268 // अधीतानि च शास्त्राणि, लोकानां देशना कृता / कृतानि दिव्यकाव्यानि, जिता वादे च वादिनः // 269 // भावना यदि नो जाता सद्गतिद्वारकुञ्चिका / स्वकार्यासाधकत्वेन, तदा सर्वं निरर्थकम् // 270 // रथकारः स्वयं दाता, गृहीता पात्रमुत्तमम् / निकटस्थो भावनासार - मनुमन्ता मृगस्तथा // 271 // वाताहतार्धच्छिनेन, वृक्षेण पतता सता / त्रयोऽपि चूर्णिताः सन्तो, ब्रह्मलोकमुपागताः // 272 // हृदयगिरिगुहान्तः संसृतं यत्तमिस्र, तदपनयनदक्षः केवलज्ञानभानुः / सपुनरुदयमेति कृत्स्नदोषावसाने, तदपिचन दुरापवर्तते भावनायाः 273 महामोहभराकान्ता, दुःखौघावर्तवर्तिनः / स्वहिताय न चेष्टन्ते, शिष्टसङ्गादृते नराः // 274 // मोक्षमार्गपरिज्ञानं, न तावज्जायते नृणाम् / . यावनोन्मीलिते नेत्रे, शिष्टसङ्गशलाकया // 275 // दुर्गतिद्वारहेतूनि, सर्वानर्थकराणि च / सुलभानि कुमित्राणि, शिष्टसङ्गस्तु दुर्लभः // 276 // तमस्तानवकर्तारः, प्रशमामृतवर्षिणः / . शरदिन्दुसमाः सन्तः, सन्तोषितजगज्जनाः / / 277 // एको द्वौ वा त्रयो वापि, पुरग्रामेषु सज्जनाः / यद्वा सन्ति न सर्वत्र, कल्पोपपदपादपाः // 278 // . मालतीचन्दनचन्द्र - सुधा येन विनिर्मिताः / तेनैव दलेनैते, स्रष्ट्रा सृष्टा हि सज्जनाः // 279 // 110.