________________ षट्खण्डमहीनाथा, यनमन्ति कृतादराः / प्राकृतस्यापि सत्त्वस्य, तपस्या तत्र कारणम् // 256 // यन्नीचकुलजातोऽपि, देवानां पूज्यतां गतः / हरिकेशबल: साधु - स्तपस्तत्र निबन्धनम् : // 257 // हीनजातितयोत्पन्नौ, नानालब्धिसमन्वितौ / चित्रसम्भूतिनामानौ, तपसा पूज्यतां गतौ // 258 // तपस्विनस्तपस्येव, वसन्तीह निरन्तरम्। . शापानुग्रहसामर्थ्य, तेषां तदनुभावतः . // 259 // भूरिभोगकरं दानं, शीलं श्लाघादिकारकम् / तपश्चाचिन्त्यसामर्थ्य, यस्माच्छकोऽपि शङ्कते // 260 // यथा तेपे तपः कोऽपि, महाटव्यां महातपाः / / क्षोभाय प्रेषयामास, भीत इन्द्रः सुरस्त्रियः // 261 // येन तीव्र तपस्तप्तं, संयम्येन्द्रियपञ्चकम् / मनोऽपि मारितं येन, भवाब्धिस्तस्य गोष्पदम् // 262 // मोहं निहन्त्यशुभतानवमातनोति, भिन्ते च संसृतिभयं भविनां भविष्णु। नागेन्द्रचन्द्रसुरराजपदं विधत्ते, तप्तं तपस्तनुभृतां किमु यन्न दत्ते?॥ 263 / / भो भव्या ! भावना भाव्या, निर्मूल्या शर्मसाधिका / भावनयैव भव्यानां, भवान्तो जायते यतः // 264 // द्रव्येण दीयते दानं, शीलं सत्त्वेन पाल्यते / तपोऽपि तप्यते कष्टं, स्वाधीना भुवि भावना // 265 // भावनातोऽपि ये भ्रष्टा - स्ते भ्रमन्ति भवोदधौ। . नात्मलाभं लभन्ते ते, बीजाभावादिवाकुराः // 266 // भावनातः क्षयं याति, भवकोटीभिर्जितम् / संसारनिम्बवृक्षस्य, कटुबीजं कर्म देहिनाम् // 267 // 116