________________ यः प्रयच्छति पुण्यार्थं, यतिभ्यः शुद्धभावतः / सर्वाशंसाद्विनिर्मुक्तं, दातृशुद्धं तदुच्यते // 232 // चराचरजगज्जन्तु - जातसन्त्राणकारिणे / ज्ञानदर्शनचारित्र - धारिणे ब्रह्मचारिणे // 233 // एवंभूताय शान्ताय, गुप्ताय च तपस्विने / दानं ग्राहकसंशुद्धं, जगाद जगतां गुरुः // 234 // यत्काले दीयते दानं, तस्या?ऽपि न विद्यते / अकाले तु वितीर्णस्य, ग्राहकोऽपि नं सम्भवी // 235 // आत्मनः स्वधनादेश्च, साफल्यमिति चिन्तयन् / यो दत्ते शुद्धभावेन, भावशुद्धं तदीरितम् . // 236 // आसन्नसिद्धिकः कोऽपि, दानधर्मे सदा रतः / शेषस्य सङ्कुचत्येव, मनो दानभयाद् द्रुतम् // 237 // शूराणां पण्डितानां च, वाग्मिनां काव्यकारिणाम् / सर्वेषामपि चैतेषां, दानदाताऽतिदुर्लभः // 238 // श्रेयांसश्चन्दना धन्या, कृतपुण्यकवाणिजः / इत्येवमादयो दृष्टा, दृष्टान्ता दानगोचराः // 239 // अमुं भवाम्भोधिमगाधमुल्बणं, गृही कथङ्कारमपारमुत्तरेत् / निराश्रवे पोत इवाविनश्वरे, स दानधर्मे न कृतादरो यदि // 240 // शीलं चित्तसमाधानं, तच्च द्वेधा प्रकीर्तितम् / सर्वतो देशतश्चैव, सर्वतः साधुसत्क्रिया // 241 // देशतः सदनुष्ठानं, श्रावकाणां जिनोदितम् / अथवा शीलशब्देन, ब्रह्मचर्यं निगद्यते // 242 // शीलं वृत्तं च चारित्रं, विरतिश्चरणं तथा / धर्मः संयम इत्याद्याः, शब्दा एकार्थवाचकाः / // 243 // 114