________________ धर्मलोकविरुद्धानि, निःशङ्को य: समाचरेत् / सोऽर्थहानिमकीर्ति च, लभतेऽत्र कुसङ्गवत् // 220 // तस्माल्लोकविरुद्धानां, परिहारः पुण्यकारणम् / तबादरो महान् कार्यो, विदुषा धर्ममिच्छता // 221 // धर्माधारार्यदेशेषु, मानुष्यं प्राप्य दुर्लभम् / तत्रापि शासनं जैन, सद्रनमिव निर्मलम् // 222 // वाताहतवीचीवच्चञ्चलं वीक्ष्य जीवितम् / कल्याणमित्रसत्साधु - सामग्रीमवाप्य च // 223 // विपदाकुलमालोक्य, वित्तं चित्तं च चञ्चलम् / पुण्यपुष्टिकरे धर्मे किं साम्प्रतमुदासितुम् ? // 224 // सोऽपि दानादिभेदेन, चतुर्भेदो भवान्तकृत् / तत्रापि प्रथमं दानं तीर्थनाथैः प्ररूपितम् // 225 // यद्गृहे पेशला सम्प - द्यच्च लोकेषु मान्यता / . सत्पुत्राः सत्कलत्राणि, यदन्यदपि सुन्दरम् . // 226 // तदेतद्दानतः सर्वं, तच्च दानं त्रिधा मतम् / विज्ञानाभयभेदेन, धर्मोपग्रहतस्तथा // 227 // किं किं दत्तं न तेनेह, किं किं नोपकृतं नृणाम् / येनागणितखेदेन, ज्ञानसत्रं प्रवर्तितम् // 228 // सर्वजीवाभयं भावाद् - दत्तं येन दयालुना / / यद्दातव्यं तकत्सर्वं, दत्तं तेन महात्मना // 229 // धर्मोपग्रहदानं, यदुपष्टम्भात्करोति शुभकर्म / तेन च तारयति यति - भवाब्धेर्दायकं स्वं च . // 230 // तच्च चतुर्धा वीरैः, शिवसुखफलसाधकं समाख्यातम् / / दातृग्राहकशुद्धं, शुद्धं कालेन भावेन // 231 / / . . . 113