________________ // 48 // // 49 // स पुनर्जायते तावदाचारात्सज्जनश्रुतेः / आत्मबोधविशेषाच्च, पुण्याच्चेत्याह सर्ववित् अक्षुद्रता दया दाक्ष्यं, क्षमा चाक्षविनिग्रहः / न्यायानुवृत्तिरनघा, यत्नश्च श्रुतशीलयोः समानधर्मवात्सल्यं, यतिधर्मादरः परः / इत्यादिः कुशलारम्भो, मुक्तिमार्गतया मतः मोक्षोपदेशपञ्चाशदेषा भाव्या मुमुक्षुभि / स्यान्मुनीन्द्रमुनीशेष्टं, येन मुक्तौ स्थिरं मनः // 50 // // 51 // // 1 // श्रीमद्राजशेखराचार्यकृता ॥दानषट्त्रिंशिका // दातुर्वारिधरस्य मूर्द्धनि तडिद्गाङ्गेयशृङ्गारणा, . वृक्षेभ्यः फलपुष्पदायिनि मधौ मत्तालिबन्दिश्रुतिः / भीतत्रातरि वृत्तिदातरि गिरौ पुजा झरैश्चामरैः, सत्कारोऽयमचेतनेष्वपि विधेः किं दातृषु ज्ञातृषु ? पित्रोर्वत्सलता गुरोर्वतभृतः शिक्षाप्रसादः प्रभोः, सद्वृत्तं सुतकल्पभृत्यसुहृदां तत्तत्क्रियाभिग्रहाः / छन्दोज्योतिषतर्कलक्षणकथौचित्यं चिरं धार्यते, सर्वं सत्पुरुषैः क्षणादपि पराग् दत्तं तु नेत्यद्भुतम् आरोहन्ति सुखासनान्यपटवो नागान् हयाँस्तज्जुषस्ताम्बूलाधुपभुञ्जते नटविटाः खादन्ति हस्त्यादयः / प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः, स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् स्फाति बन्धुसरांसि यान्तुः परितः कीर्तिश्रवन्त्यः स्फुरन् तूच्चैर्माद्यतु दीनदुर्दरकुलं विद्वन्मयूरैः सह / 73 // 2 // // 3 //