SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ .. // 22 // // 23 // तत्सदृशं निजात्मानं, परमानन्दकारणम् / . संसेवते निजात्मानं, यो जानाति स पण्डितः पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम् / तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति / अयमात्मा स्वभावेन, देहे तिष्ठति निर्मल: अव्रतानि परित्यज्य, व्रतेषु परिनिष्ठितः / त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मनः - // 24 // . // 25 // ॥प्रातःकालिकजिनस्तुतिः // येऽर्हन् ! प्रभातसमये तव पादपद्यमापन्महार्णवसमुत्तरणैकसेतुम् / पश्यन्ति नश्यति ततस्ततमाशु सर्वमेनोऽतितीव्रभवदाहसमाम्बुवाह 1 उद्भूतभूरिसुकृता भविनो भवन्ति, ये केचन च्युतमदप्रसरा प्रगे ते। उत्फुल्लपङ्कजदलोपमनेत्रपात्रास्त्रांणप्रदौ तव पदौ प्रविलोकयन्ते॥ 2 // प्रातः प्रसन्नवदना भुवनावतंसमासन् सितोज्ज्वलपदा भवदीयरूपम् / ये केचिदीक्षणपथं प्रथमं नयन्ति, ते फेनपाण्डुरयशोभवनं भवन्ति 3 // उद्गूढभाग्यभवभाजनमाननीयमालोक्य भास्वदुदये चलनद्वयं ते। भव्या नयन्ति वशमत्र जगत्त्रयेऽपि, भद्राणि चन्द्रकिरणोत्करनिर्मलानि चिन्तामणिर्न च न वा नवकामधेनुः, कल्पद्रुमोऽपि न न भद्रघटः प्रसन्नः आविष्करोति फलमर्कविलोककाले, यत्ते पदाम्बुरुहमीक्षितमात्रमेव ताराविरामसमये कमलाकरेषु, यातेषु बोधमुदितामलसौरभेषु-। धन्या विनिद्रितदृशः सुदृशः प्रभावमालोकयन्ति कमलाकुलमाननं ते६ भिन्दन्ति दुर्गतिभयानि समानयन्ति, स्वःसम्भवानि शिवजानि च मङ्गलानि भानूदये तव नमन्ति नुवन्ति येऽङ्ग्री, पापाम्बुराशिपरिशोषसमीर ! धीर ! 7 2
SR No.004459
Book TitleShastra Sandesh Mala Part 09
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy